← All bhajans
Shlok

मंगलाचरण श्लोक

Nimai Pathshala Mangalacharan Shlok

Nimāi Pāṭhśālā Maṅgalācaraṇa Śloka

Traditional invocatory ślokas

Listen on the official channel

The auspicious invocation (maṅgalācaraṇa) recited at Nimai Pathshala, offering obeisances to Kṛṣṇa, Guru, the Vaiṣṇavas and Śrī Caitanya Mahāprabhu.

॥ lyrics ॥

कृष्णाय वासुदेवाय हरये परमात्मने। प्रणतः क्लेशनाशाय गोविंदाय नमो नमः।।

सच्चिदानन्दरूपाय विश्वोत्पत्यादिहेतवे । तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः श्री रामाय वयं नुमः श्री गौराय वयं नुमः ॥

वंदेऽहं श्रीगुरोः श्रीयुतपदकमलं श्रीगुरून् वैष्णवाँश्च । श्रीरूपं साग्रजातं सहगण रघुनाथान्वितं तं सजीवम् ।। साद्वैतं सावधूतं परिजन सहितं कृष्ण चैतन्य देवं ।श्री राधाकृष्ण पादान् सहगण ललिता श्री विशाखान्वितांश्चः।।

अहो भाग्यमहो भाग्यं गौरमार्गानुवर्तिनाम | राधारमण देवोत्र यद्रुरुर्गुणमञ्जरी ||

पञ्चतत्त्वात्कमं कृष्णं भक्तरूपस्वरूपकम्। भक्तावतारं भक्ताख्यं नमामि भक्तशक्तिकम् ॥

अनर्पितचरीं चिरात् करुणयावतीर्णः कलौ, समर्पयितुमुन्नतोज्ज्वलरसां स्वभक्तिश्रियम्। हरिः पुरटसुन्दरद्युतिकदम्बसन्दीपितः । सदा हृदयकन्दरे स्फुरतु वः शचीनन्दनः ।।

अजनु-लम्बित-भुजौ कनकवधतौ, संकीर्तनिका-पितरौ कमलायतक्षौ। विश्वम्भरौ द्विज-वरौ युग-धर्म पलौ, वन्दे जगत-प्रियकरो करुणावतारौ।।

वाग् गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च । विलज्ज उद्‌गायति नृत्यते च मद्भक्तियुक्तों भुवनं पुनाति ॥